2. ஆதாநத்தைச் செய்யும் விதம் - முதல் முதல் அரணிகளைக் கொண்டுவர வேண்டியது. அரணி என்பது அரசமரத்தின் வயிரமான துண்டு. அரணிகள் இரண்டு வேண்டியது. ஒன்றுக்கு पूर्वारणि என்றும், மற்றொன்றுக்கு उत्तरारणि என்றும் பெயர். பிறகு संभारங்களைக் கொண்டு வரவேண்டியது. संभारங்கள் என்றால் - ஏழுவிதமான பூமியின்பதார்த்தங்களும், ஏழுவிதமான ஓஷதிகளும் (மரம்செடிகள்). அவைகளில் பூமியின் பதார்த்தங்களாவன- மணல், ஊஷரமண், எலிவளைமண், கரையான் புத்துமண், ஜலம் வற்றாத குளத்தின் அடியிலிருக்கும்சேறு, பன்றி மூக்கினால் கல்லினமண், சுக்கான் கல்லுகள். தங்கத் துண்டுகளும் வேண்டும். ஓஷதிகளாவன - அரசு, அத்தி, புரசு, வன்னி, விகங்கதம், இடிவிழுந்த மரம் - இவைகளின் கிளைகளும், தாமரை இலைகளும். இவைகளைக் கொண்டுவந்து, ஒரு இடத்தில் வைக்கிறது. பிறகு யாகபூமியைக் கொத்தி, மேல் மண்ணை எடுத்துவிட்டு புரோக்ஷிக்கிறது. யஜமாநன் க்ஷௌரம் செய்து கொண்டு, ஸ்நாநம் செய்து, பட்டு வஸ்திரம் கட்டிக் கொள்ள வேண்டியது. பத்திநியும் ஸ்நாநம் செய்து, பட்டுச் சேலையைக் கட்டிக் கொள்ள வேண்டியது.आप.श्रौत.सूत्रम्,प्रश्नः-5, कण्डिका-1,2,3
आप.श्रौत.सूत्रम्,प्रश्नः-5, कण्डिका-1,2,3
कण्डिका-1
1 - अग्न्याधेयं व्याख्यास्यामः; 2 - यो अश्वत्थः शमीगर्भ आरुरोह त्वे सचा / तं ते हरामि ब्रह्मणा यज्ञियैः केतुभिः सहेति शमीगर्भस्याश्वत्थस्यारणी आहरति ; 3 - अप्यशमीगर्भस्येति वाजसनेयकम्;
4 - अश्वत्थाद्धव्यवाहाद्धि जातामग्नेस्तनूं यज्ञियां संभरामि / शान्तयोनिं शमीगर्भम् अग्नये प्रजनयितवे / आयुर्मयि धेह्यायुर्यजमान इत्यरणी अभिमन्त्र्य सप्त पार्थिवान् सं भारानाहरति / एवं वानस्पत्यान् / पञ्चपञ्च वा
5 - भूयसो वा पार्थिवान् ; 6 - न संभारान्संभरेदिति वाजसनेयकम् ;
7 - वैश्वानरस्य रूपं पृथिव्यां परिस्रसा / स्योनमाविशन्तु न इति सिकताः // यदिदं दिवो यददः पृथिव्याः संजज्ञाने रोदसी संबभूवतुः / ऊषान्कृष्णमवतु कृष्णमूषा इहोभयोर्यज्ञियमागमिष्ठा इत्यूषान् // ऊतीः कुर्वाणो यत्पृथिवीमचरो गूहाकारमाखुरूपं प्रतीत्य / तत्ते न्यक्तमिह संभरन्तः शतं जीवेम शरदः सुवीरा इत्याखुकरीषम् // ऊर्जं पृथिव्या रसमाभरन्तः शतं जीवेम शरदः पुरूचीः / वम्रीभिरनुवित्तं गुहासु श्रोत्रं त उर्व्यबधिरा भवाम इति वल्मीकवपाम् // प्रजापतिसृष्टानां प्रजानां क्षुधोऽपहत्यै सुवितं नो अस्तु / उपप्रभिन्नमिषमूर्जं प्रजाभ्यः सूदं गृहेभ्यो रसमाभरामीति सूदम् // यस्य रूपं बिभ्रदिमामविन्दद्गुहा प्रविष्टां सरिरस्य मध्ये / तस्येदं विहतमाभ्रन्तोऽच्छम्बट्कारमस्याम् विधेमेति वराहविहतम्
कण्डिका-2
याभिरदृंहज्जगतः प्रतिष्ठामुर्वीमिमां विश्वजनस्य भर्त्रीम् / ता नः शिवाः शर्कराः सन्तु सर्वा इति शर्कराः // अग्ने रेतश्चन्द्रं हिरण्यमद्भ्यः संभूतममृतं प्रजासु / तत्संभरन्नुत्तरतो निधायातिप्रयच्छन्दुरितिं तरेयमिति हिरण्यम्
इति पार्थिवाः ; यदि पञ्चौदुम्बराणि लोहशकलानि पञ्चमो भवति;
अश्वो रूपं कृत्वा यदश्वत्थेऽतिष्ठः संवत्सरं देवेभ्यो निलाय / तत्ते न्यक्तमिह संभरन्तः शतं जीवेम शरदः सुवीरा इत्यश्वत्थम् // ऊर्जः पृथिव्या अध्युत्थितोऽसि वनस्पते शतवल्शो विरोह / त्वया वयमिषमूर्जं मदन्तो रायस्पोषेण समिषा मदेमेत्युदुम्बरम् // गायत्रिया ह्रियमाणस्य यत्ते पर्णमपतत्तृतीयस्यै दिवोऽधि / सोऽयं पर्णः सोमपर्णाद्धि जातस्ततो हरामि सोमपीथस्यावरुद्ध्यै // देवानां ब्रह्मवादं वदतां यदुपाशृणोः सुश्रवा वै श्रुतोऽसि / ततो मामाविशतु ब्रह्मवर्चसं तत्संभरंस्तदवरुन्धीय साक्षादित्येताभ्यां पर्णम् // यया ते सृष्टस्याग्नेर्हेतिमशमयत्प्रजापतिः / तामिमामप्रदाहाय शमीं शान्त्यै हराम्यहमिति शमीम् // यत्ते सृष्टस्य यतो विकङ्कतं भा आर्छज्जातवेदः / तया भासा संमित उरुं नो लोकमनुप्रभाहीति विकङ्कतम् / यत्ते यान्तस्य हृदयमाच्चिन्दञ्जातवेदो मरुतो अद्भिस्तमयित्वा / एतत् ते तद् अशनेः संभरामि सात्मा अग्ने सहृदयो भवेहेत्यशनिहतस्य वृक्षस्य // यत्पर्यपश्यत्सरिरस्य मध्य उर्व्! ईमपश्यज्जगतः प्रतिष्ठाम् / तत्पुष्करस्यायतनाद्धि जातं पर्णं पृथिव्याः प्रथनं हरामीति पुष्करपर्णम् // इति वानस्पत्याः
कण्डिका-3
1 - यं त्वा समभरं जातवेदो यथा शरीरं भूतेषु न्यक्तम् / स संभृतः सीद शिवः प्रजाभ्य उरुं नो लोकमनुनेषि विद्वानिति संभृत्य निदधाति; 2 - अथ नक्षत्राणि; 3 - कृत्तिकासु ब्राह्मण आदधीत मुख्यो ब्रह्मवर्चसी भवति
4 - गृहांस्तस्याग्निर्दाहुको भवति; 5 - रोहिण्यामाधाय सर्वान्रोहान्रोहति; 6 - मृगशीर्षे ब्रह्मवर्चसकामो यज्ञकामो वा; 7 - यः पुरा भद्रः सन्पापीयान्स्यात्पुनर्वस्वोः;8 - पूर्वयोः फल्गुन्योर्यः कामयेत दानकामा मे प्रजा स्युरिति
9 - उत्तरयोर्यः कामयेत भग्यन्नादः स्याम् इति; 10 - एतदेवैके विपरीतम्; 11 - अथापरम् / पूर्वयोराधाय पापीयान् भवत्युत्तरयोर् वसीयान्; 12 - हस्ते यः कामयेत प्र मे दीयेतेति; 13 - चित्रायां राजन्यो भ्रातृव्यवान्वा
14 - विशाखयोः प्रजाकामोऽनुराधेष्वृद्धिकामः श्रवणे पुष्टिकाम उत्तरेषु प्रोष्ठपदेषु प्रतिष्ठाकामः; 15 - सर्वाणि नित्यवदेके समामनन्ति;16 - फल्गुनीपूर्णमास आदधीतेत्युक्त्वाह यत्फल्गुनीपूर्णमास आदध्यात्संवत्सरस्यैनमासन्दध्याद्द्व्यहे पुरैकाहे वा
17 - अमावास्यायां पौर्णमास्यां वाधेयः; 18 - वसन्तो ब्राह्मणस्य ग्रीष्मो राजन्यस्य हेमन्तो वा शरद्वैश्यस्य वर्षा रथकारस्य; 19 - ये त्रयाणां वर्णानामेतत्कर्म कुर्युस्तेषामेष कालः;20 - शिशिरः सार्ववर्णिकः
21 - सोमेन यक्ष्यमाणो नर्तुं सूर्क्षेन्न नक्षत्रम्;22 - उदवसाय शालीन आदधीतानुदवसाय यायावरः;23 - एकाहं वा प्रयायात्
Go to Main Page